वांछित मन्त्र चुनें

वि॒श्वक॑र्मा॒ विम॑ना॒ आद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् । तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा॑ सप्तऋ॒षीन्प॒र एक॑मा॒हुः ॥

अंग्रेज़ी लिप्यंतरण

viśvakarmā vimanā ād vihāyā dhātā vidhātā paramota saṁdṛk | teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ ||

पद पाठ

वि॒श्वऽक॑र्मा । विऽम॑नाः । आत् । विऽहा॑याः । धा॒ता । वि॒ऽधा॒ता । प॒र॒मा । उ॒त । स॒म्ऽदृक् । तेषा॑म् । इ॒ष्टानि॑ । सम् । इ॒षा । म॒द॒न्ति॒ । यत्र॑ । स॒प्त॒ऽऋ॒षीन् । प॒रः । एक॑म् । आ॒हुः ॥ १०.८२.२

ऋग्वेद » मण्डल:10» सूक्त:82» मन्त्र:2 | अष्टक:8» अध्याय:3» वर्ग:17» मन्त्र:2 | मण्डल:10» अनुवाक:6» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विश्वकर्मा) विश्व का रचनेवाला परमात्मा (विमनाः) विशेष मनन शक्तिवाला (विहायाः) व्यापक (धाता) जगत् का धारक (विधाता) कर्मफलविधायक-कर्मफल को नियत कर देनेवाला (परमा सन्दृक्) परम इन्द्रिय-विषयों का (­­­ तेषाम्-इष्टानि) उन इन्द्रियों के विषयसुखों को (इषा-सम्-मदन्ति) उस की प्रेरणा से मनुष्य सम्यक् सुख का अनुभव करते हैं (यत्र) जिस परमात्मा में (सप्त-ऋषीन्) सात छन्दोंवाले मन्त्र रखे हुए हैं तथा (परः-एकम्-आहुः) पार-मोक्षधाम में वर्तमान है, उस एक अधिष्ठाता परमात्मा को वे मन्त्र कहते हैं ॥२॥
भावार्थभाषाः - परमात्मा विश्व का रचनेवाला उसमें व्यापक सर्वज्ञ है, जीवों के कर्मफलों को देनेवाला इन्द्रियों के विषयों का प्रेरक तथा सुख अनुभव करानेवाला है ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विश्वकर्मा) विश्वरचयिता परमात्मा (विमनाः) विभूतमनाः-अतिशयितमननशक्तिमान् (विहायाः) व्यापकः (धाता) जगतो धारयिता (विधाता) कर्मफलविधायकः (परमा सन्दृक्) परमः सन्दर्शयितेन्द्रियविषयाणाम् “लिङ्व्यत्ययश्छान्दसः” (तेषाम्-इष्टानि) तेषामिन्द्रियाणामिष्टानि विषयसुखानि (इषा-सम्-मदन्ति) तत्प्रेरणया जनाः सम्यगानन्देनानुभवन्ति (यत्र सप्त-ऋषीन्) यस्मिन् सप्तछन्दोयुक्ताः मन्त्राः सन्ति “व्यत्ययेन द्वितीया” (परः-एकम्-आहुः) परः परिपाप्यः पारवर्त्तमानोऽस्ति, तमकेमधिष्ठातारं ते मन्त्राः कथयन्ति ॥२॥